हास्यसीकरः ३६
काचन ललना विपणिवीथ्यां गच्छन्ती विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन्ती तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, “भवति, कुरूपासु प्रथमा खलु भवती” इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, “भवति, कुरूपासु प्रथमा खलु भवती” इति । परेद्युः यदा सा स्वोद्योगाय गच्छन्ती तं शुकमपश्यत्, स शुकः पुनरुवाच, “भवति, कुरूपासु प्रथमा खलु भवती” इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, “अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि” इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, “भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि” इति। सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, “आर्ये” इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्,”ततः किम्” । सः शुकः सगर्वमभणत्, “मम कथनेन किम्? भवती वेत्ति खलु” इति ।- - - -
No comments:
Post a Comment