Tuesday, October 11, 2011

Sanskrit blog: Humour-30

हास्यसीकरः_३०
बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि । पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति इति । बालकः अवदत्, सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, तव श्मश्रुसंस्कारं कारयामि। मया सह आगच्छ इति । अतः तेन सह अहमागतः इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।
- - - - 

No comments:

Post a Comment