Saturday, July 30, 2011

Sanskrit blog: Humour_19

हास्यसीकरः_१९
चन्द्रदत्तसूर्यदत्तौ वयस्यौ पादकन्दुकक्रीडासक्तौ परस्परं संलपन्तौ आस्ताम् ।

चन्द्रदत्तः: वयस्य, अपि स्वर्गे पादकन्दुकक्रीडा प्रचलति ?

सूर्यदत्तः: न जाने, परंतु यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं तदा तत्र सा क्रीडा प्रचलति न वा इत्युदन्तं तुभ्यम् आगत्य निवेदयामि ।

चन्द्रदत्तः: बाढम्, यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं अहमपि तथैव करोमि ।

विधिवशात् सूर्यदत्तः चन्द्रदत्तात् पूर्वं दिवमगात् । कतिपयदिवसानन्तरं सूर्यदत्तः चन्द्रदत्तस्य प्रत्यक्षमभवत्त् ।

चन्द्रदत्तः : वयस्य, स्वर्गादागतः किम्?

सूर्यदत्तः :बाढम्

चन्द्रदत्तः: स्वर्गे का वार्ता? तत्र पादकन्दुकक्रीडा प्रचलति किम्?

सूर्यदत्तः: वयस्य, तुभ्यं वार्ताद्वयमानयामि । एका शुभा अन्या अशुभा ।

चन्द्रदत्तः: स्वर्गे पादकन्दुकक्रीडा प्रचलतीति शुभा वार्ता ।

सूर्यदत्तः : तुष्टोऽस्मि । का भवेदशुभा वार्ता ?
चन्द्रदत्तः : आगामिनि रविवासरे अत्र त्वं क्रीडिष्यसि ।
- - - -

No comments:

Post a Comment