हास्यसीकरः_१५
अहं साक्षात्करं (television) विलोकयन् आसि । दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, “ सुन्दरेण सह संलपितुमिच्छामि” ।
अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसंख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, “सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपिकश्चित्संदेशः?”
सा अवदत्, “सुन्दरः कदा पुनरागमिष्यति?”
“प्रायेण दशवादनसमये आगमिष्यति”
“भवान् श्यामः किम्?”
मम नाम श्यामः न । तथाप्यहमवदम्, “बाढम्, अपि कश्चित् सन्देशः सुन्दराय?” ईषद्प्रक्षुब्धवाण्या सा अवदत्,“ सः मामवादीत्,”अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप” इति ।“.
अहमवदम्, “सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्”
भूयोऽपि क्रुद्धा सा अवदत्, “रेखा का?”
“सा तस्याः प्रियवयस्या।“
“तदवगतम् । परंतु सा का?”
”अहं न जाने । अपि कश्चित् संदेशः सुन्दराय? “
“कृपया तं वक्तुमर्हसि, “गृहमागतः सः मया सह दूरवाण्यां संलपतु” इति”
“अपि भवती श्यामा?” अहमपृच्छम् ।
”श्यामा का?” तस्याः कोपः परां काष्ठां प्राप ।
” सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् ।“
“सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हसि, “शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति” । सपदि तया संपर्कः त्रुटितः ।
ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च ।
- - - -
No comments:
Post a Comment