हास्यसीकरः_२०
रत्नदत्तः शुण्डापानं गत्वा पानमेकमक्रीणात् । चषकात् किञ्चित् पानं पीत्वा शेषं पानं पानहरस्य मुखे प्राक्षिपत् । यावत् पानहरः चकितः संभ्रान्तश्च वक्तुमुद्यतः तावदेव रत्नदत्तः रोदितुं प्रारभत पानहरमवदच्च, “सखे, तव क्षमां याचे । किं करवाणि ? एतत् दुष्कर्म महता यत्नेनापि रोद्धुमशक्तोऽहम् । पाने पाने एवमेव करोमि । परां व्रीडामनुभवामि रोदिमि च । जनाः कथयन्ति एषः मानसिकव्याधिः इति ।“ पानहरः स्नेहशीलः अनुभवी च तमवदत्, “ आर्य, मा शुचः । मनोवैद्यमेकमहं जानामि । तेन संगम्य तस्य उपदेशं प्राप्नुहि । शुभं भूयात्” इति । रत्नदत्तः वैद्यस्य नामधामविशेषान् पानहरात् लब्ध्वा तस्य उपकृतिं प्रशस्य शुण्डापानात् निरगच्छत् ।
गतेषु कतिपयमासेषु यदा रत्नदत्तः पुनरपि तदेव शुण्डापानमागतः तदा तं पानहरः अभ्यजानात् तमवदच्च, “आर्य, अपि त्वं तं मनोवैद्यमगच्छः?“ रत्नदत्तः जगाद, “बाढं सखे । त्वयाहं भूर्युपकृतोऽस्मि । मम व्याधिः निरस्तः” इति । पानहरः प्रीतोऽभूत् ।
रत्नदत्तः यथापूर्वं पानं क्रीत्वा पातुं प्रारभत । किञ्चित् पीत्वा चषके अवशिष्टं पानं यथापूर्वं पानहरस्य मुखे प्राक्षिपत् । पानहरः दिग्भ्रान्तः रुष्टश्च अभाषत, “आर्य किमिदम्? पुनरपि मम मुखे पानं प्रक्षिपसि? व्याधिः निरस्तः इति च वदसि?“ । रत्नदत्तः शान्त एव अवदत्, “अथ किम् । इदानीं तु यथापूर्वं कुर्वन्नपि अहं व्रीडितो न भवामि न रोदिमि च ।”
- - - -
No comments:
Post a Comment