Saturday, July 16, 2011

Sanskrit blog: Humour-17( A story about Einstein)

हास्यसीकरः_१७

ऐन्श्टैनः तस्य सारथिश्च

प्रथितभौतशास्त्रज्ञः ऐन्श्टैनः सापेक्षतावादमधिकृत्य वारं वारं नैकविद्यालयेषु सभाङ्गणेषु भाषते स्म । सभायां ऐन्श्टैने भाषमाणे तस्य कार्-यानस्य सारथिः सभाङ्गणस्य कस्मिंश्चन पीठे एव उपविशति स्म । गच्छत्सु दिनेषु ऐन्श्टैनस्य भाषणवाक्स्रोतः सारथेः कण्ठगतमभवत् ।

कार्-याने कदाचन तयोः सभाङ्गणं गच्छतोः, सारथिः ऐन्श्टैनमवदत्, आर्य, यदा भवान् क्लान्तः तदा अहमेव भवतः भाषणं कर्तुं यते ।" ऐन्श्टैनः अवदत्, तथास्तु, अद्य एव मम स्थाने मम परिधानं परिधाय त्वमेव भाषस्व । अहं तव परिधानं परिधाय सभायां उपविशामि। तौ तथैव अकुरुताम् । सारथिः मनागपि स्खलनम् विना बभाषे ।

भाषणानन्तरं कश्चन सभ्यः कठिनं प्रश्नमेकमपृच्छत् । सारथिः असंभ्रान्तः तत्क्षणमेव आर्य, तव प्रश्नः अतीव सरलः । मम सारथिरपि उत्तरं दातुं समर्थः, इति वदन् ऐन्श्टैनं अङ्गुल्या निरदिशत् ।
- - - -

No comments:

Post a Comment