हास्यसीकरः_१४
कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत् । विश्वदत्तः तं सान्त्वयितुमवदत्, “ भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् “ इति ।
ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, “भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषॆण सह रममाणां मम भार्यामपश्यम् । विषण्णः किंकर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् ।“
- - - -
Ha ha hah ha ......समीचीनम
ReplyDeleteसम्यगस्ति भोः। विवेकभ्रष्टसम्पाताः बहुविधाः भवन्तीति सत्यम्।
ReplyDelete