- - - -
Saturday, July 30, 2011
Sanskrit blog: Humour_19
- - - -
Wednesday, July 27, 2011
Sanskrit blog: A hymn to Garuda
- - - -
Saturday, July 23, 2011
Sanskrit blog: Humour_18
हास्यसीकरः_१८
वृद्धौ बयस्यौ परस्परम् संलपन्तौ आस्ताम् ।
’देवदत्त, अहो कालस्य महिमा, अस्मद्वयस्येषु बहवो दिवं गताः । परंत्वहं अस्मद्वयस्यस्य ब्रह्मदत्तस्य मरणं भूयो भूयो शोचामि ।’
’कुत इत्थं, वयस्य ?’
’ब्रह्मदत्ते उपरते अहं तस्य विधवां पर्यणयं खलु ।’
- - - -
Tuesday, July 19, 2011
Sanskrit blog: An Urdu couplet
उर्दू-मुक्तकः
हर्षस्फीते बन्धुजने रुदन्नहमवातरम् ।
रोदिष्यति प्रियजने मृतिर्मेऽस्तु हसिष्यतः ॥
The above is a rendering of an Urdu couplet- fairly well known- which says, “I came to this earth crying while my relatives were joyful. Let me go out of this world joyfully, while my relatives weep.”
- - - -
Saturday, July 16, 2011
Sanskrit blog: Humour-17( A story about Einstein)
हास्यसीकरः_१७
ऐन्श्टैनः तस्य सारथिश्च
प्रथितभौतशास्त्रज्ञः ऐन्श्टैनः सापेक्षतावादमधिकृत्य वारं वारं नैकविद्यालयेषु सभाङ्गणेषु भाषते स्म । सभायां ऐन्श्टैने भाषमाणे तस्य कार्-यानस्य सारथिः सभाङ्गणस्य कस्मिंश्चन पीठे एव उपविशति स्म । गच्छत्सु दिनेषु ऐन्श्टैनस्य भाषणवाक्स्रोतः सारथेः कण्ठगतमभवत् ।
कार्-याने कदाचन तयोः सभाङ्गणं गच्छतोः, सारथिः ऐन्श्टैनमवदत्, “आर्य, यदा भवान् क्लान्तः तदा अहमेव भवतः भाषणं कर्तुं यते ।" ऐन्श्टैनः अवदत्, “तथास्तु, अद्य एव मम स्थाने मम परिधानं परिधाय त्वमेव भाषस्व । अहं तव परिधानं परिधाय सभायां उपविशामि।“ तौ तथैव अकुरुताम् । सारथिः मनागपि स्खलनम् विना बभाषे ।
भाषणानन्तरं कश्चन सभ्यः कठिनं प्रश्नमेकमपृच्छत् । सारथिः असंभ्रान्तः तत्क्षणमेव “आर्य, तव प्रश्नः अतीव सरलः । मम सारथिरपि उत्तरं दातुं समर्थः,“ इति वदन् ऐन्श्टैनं अङ्गुल्या निरदिशत् ।- - - -
Wednesday, July 13, 2011
Sanskrit blog: Mirza Ghalib
मिर्ज़ा गालिब उवाच
न बुध्यन्ते मम गिरः न भोत्स्यन्ते कदापि ते ।
देहि तेभ्यः हृदन्यं वा जिह्वामन्यां महेश मे ॥
“या रब वो न समझे हैं न समझेगे मेरी बात
दे और दिल उन को या दे मुझको ज़ुबान और ॥“ मिर्ज़ा गालिब्
“Dear God, they have not understood, nor will ever understand what I am trying to say. Either give them a new heart or give me a different tongue”
Sunday, July 10, 2011
Sanskrit blog_Humour 16
हास्यसीकरः_१६
न्यायाधीशः: कच्चित् स्वीकुरुषे यत् त्वम् चतुर्वारं परिधानविपण्याः चोरयितुं अन्तरगच्छः?
अभियुक्तः: बाढम्,प्रभो ।
न्यायाधीशः: त्वं किमचोरयः?
अभियुक्तः: परिधानमेकम्, प्रभो ।
न्यायाधीशः: चतुर्वारं त्वं भित्तिं भङ्क्त्वा विपण्याः अन्तरगच्छः, कथमेकं परिधानमेव अचोरयः ।
अभियुक्तः: किं करवाणि? त्रिवारं मुषितपरिधानवर्णः मम पत्न्यै नारोचत ।
- - - -
Thursday, July 7, 2011
Sanskrit blog: A time to believe
श्रद्धा
यदि श्रद्धालुस्त्वं परिणमति नूत्नं प्रतिदिनम्
भवेत्स्वप्नः सत्यं भवति घटना विस्मयकरा |
स्वसामर्थ्ये धैर्ये भजसि दृढतां तोषजननीम्
प्रभग्नास्वाशासु प्रभवसि च यष्टुं पुनरपि ॥
Above is a rough rendering of the following :
A Time To Believe
To believe is to know that
every day is a new beginning.
Is to trust that miracles happen,
and dreams really do come true.
To believe is to find the strength
and courage that lies within us
When it's time to pick up
the pieces and begin again.
- - -
Tuesday, July 5, 2011
Sanskrit blog: Humour-15
हास्यसीकरः_१५
अहं साक्षात्करं (television) विलोकयन् आसि । दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, “ सुन्दरेण सह संलपितुमिच्छामि” ।
अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसंख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, “सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपिकश्चित्संदेशः?”
सा अवदत्, “सुन्दरः कदा पुनरागमिष्यति?”
“प्रायेण दशवादनसमये आगमिष्यति”
“भवान् श्यामः किम्?”
मम नाम श्यामः न । तथाप्यहमवदम्, “बाढम्, अपि कश्चित् सन्देशः सुन्दराय?” ईषद्प्रक्षुब्धवाण्या सा अवदत्,“ सः मामवादीत्,”अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप” इति ।“.
अहमवदम्, “सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्”
भूयोऽपि क्रुद्धा सा अवदत्, “रेखा का?”
“सा तस्याः प्रियवयस्या।“
“तदवगतम् । परंतु सा का?”
”अहं न जाने । अपि कश्चित् संदेशः सुन्दराय? “
“कृपया तं वक्तुमर्हसि, “गृहमागतः सः मया सह दूरवाण्यां संलपतु” इति”
“अपि भवती श्यामा?” अहमपृच्छम् ।
”श्यामा का?” तस्याः कोपः परां काष्ठां प्राप ।
” सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् ।“
“सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हसि, “शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति” । सपदि तया संपर्कः त्रुटितः ।
ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च ।
- - - -
Saturday, July 2, 2011
Sanskrit blog: Humour_14
हास्यसीकरः_१४
कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत् । विश्वदत्तः तं सान्त्वयितुमवदत्, “ भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् “ इति ।
ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, “भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषॆण सह रममाणां मम भार्यामपश्यम् । विषण्णः किंकर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् ।“
- - - -