Follow by Email

Sunday, March 20, 2011

Sanskrit blog-Kerala-a travelogue

केरलप्रवासः

जनवरीमासे अहं मम भार्यया मैथिल्या सह पर्यटनाय केरलान् अगच्छम्। प्रयाणात् प्रागेव अन्तर्जालमुखेन केरलमधिकृत्य उपयुक्तविषयानां चयनं कृतम् । एर्नाकुले तथा तेक्कडिनामपुरे च आवयोः वासार्थं पूर्वभूतमदीयसर्वकारविभागस्य अतिथिगृहे प्रागेव कक्षा रक्षिता । अतः त्रीणि दिनानि एर्नाकुले त्रीणि दिनानि तेक्कडिपुरे उषितव्यमिति निर्णयमकरवम् ।

रेल् याने शयनकोष्ठे ससुखं प्रयाणः निर्वृत्तः । एर्नाकुलस्य रेल्स्थानस्य अनतिदूरे एव अस्मदतिथिगृहमासीत् । एर्नाकुले प्रथम दिने एव शुल्कलभ्यकार्-याने प्रचल्य प्रेक्षणीयानि स्थलानि आवामपश्यताम् ।

अर्णदारुणा तथा वंशदण्डैश्च निर्मितानि चीनामत्स्यजालाख्यबृहज्जालानि समुद्रतीरे स्थापितानि । तानि क्रिस्तोत्तरचतुर्दशशतमाने चीनादेशादागतैः स्थापितानि इति वदन्ति । सन्तफ्रान्सिस्-चर्च् इति ख्यातम् क्रिस्तमन्दिरम् पौर्तुगलीयैः पञ्चदशे शतमाने निर्मितं समुद्रतीरे निकटे एव वर्तते । तदपि रमणीयम् अद्यापि सम्यक् रक्षितम् ।

कोच्चिनगर्यां कतिचन द्वीपाश्च सन्ति। द्वीपान् गन्तुं समुद्रतरणाय नावः वर्तन्ते । आवामपि नावमेकमारुह्य पर्यटनमकरवाव ।

मट्टनचेरिप्रासाद इति ख्यातः अन्यः कोच्चिराज्ञाम् प्रासादश्च प्रेक्षणीय एव। पौर्तुगलीयैः निर्मितः अयम् कोच्चिराज्ञे केरलवर्मणे षोडशशतमाने उपायनरूपेण समर्पितः इत्यस्य चरित्रम् । अत्र रामायणमहाभारतपुराणादिभ्यः उद्धृतान् कथासंदर्भानधिकृत्य कृतानि भित्तिचित्राणि अतीव सुभगानि। अत्र कोच्च्याः अनेकराज्ञामालिखितचित्राणि च प्रदर्शितानि।

पश्चात् आवां येहूदिपुरे स्थितं येहूदिप्रार्थनामन्दिरम् द्रष्टुं गतौ । परंतु तद्दिने शनिवासरे विरामकारणात् तस्य द्वारं पिहितमासीत् । तत् प्रविशन् विना प्रतिनिवृत्तौ । येहूदिपुरमपि प्रेक्षणीयमेव । तत्र पन्थानः ह्रस्वा अपि स्वच्छाः वर्तन्ते । पथः पार्श्वयोः स्थितानि भवनान्यपि स्वच्छानि सुन्दराणि च ।

पश्चात् कार्-यानचालकः विपिननामा आवां स्वच्छमेकं भोजनालयमनयत् ।आहारः स्वच्छः रोचकश्च आसीत् । क्षुधिताः आतृप्ति अखादाम ।

मध्याह्ने विपिनः आवां गिरेः शिखरे सुन्दरोद्यानमध्ये निर्मितं गिरिप्रासादमनयत् । सोपानश्रेणीः आरुह्य आवां गिरिप्रासादं प्रविष्टौ । अत्र कौतुकागारवत् विविधानि जानपदैः नगरजनैः तथा राजभिश्च आ चरित्रपूर्वकालात् आनूतनकालमुपयुक्तानि वस्तूनि क्रमशः प्रदर्शितान्यपश्यताम् । तत्र कोष्ठ्याः कोष्ठिम् अटित्वा क्लान्तौ एकस्मिन् भोजनालये खादित्वा वसतिं तूर्णमेव प्रतिनिवृत्तौ।

अपरेद्युः विपिनः आवां कुमारकोम् इति नाम्ना प्रसिद्धं स्थलमनयत् यत्र अनूपप्रदेशेषु नावा प्लवन् स्तब्धजले मत्स्यभक्षणार्थं ध्यानरतान् बकांश्च पश्यन् नारिकेलवृक्षभरितसमुद्रतीरस्यसौन्दर्यमनुभवन् अपरिज्ञातव्यतीतकालौ सुखं विहरावः स्म । तत्र विशेषेण यूनां रात्रौ निवसनार्थं निर्मिताः शयनागार-स्नानगृह-महानससज्जिताः गृहनावश्च सन्ति । आवां तु गृहनावमेकं प्रविश्य अन्तरागारान् दृष्ट्वा तृप्तावभूव।

कुमारकोम्-पुरात् प्रतिनिवर्तने मार्गे चेरै इति ख्यातं सैकतसमुद्रतीरमगच्छाम । समुद्रे प्लवतः मज्जतः जनान् सिकतासु उदधिपवनं सेवितुं विहरतः स्त्रीपुरुषयुग्मान् तटं प्रहरद्भिः तरङ्गैः खेलतः बालान् बालिकाश्च पश्यन् आवामपि तारुण्यं स्मरन् इव जले तरङ्गाघातैः पादौ सिक्त्वा रमेते स्म ।

तृतीये दिवसे वयं गुरुवायुपुरमगच्छाम । एर्नाकुलात् गुरुवायुपुरपर्यन्तं रथ्यायाः उभययोः पार्श्वयोः नगरग्रामाणां अविच्छिन्नशृङ्खला एव दृश्यते । केरलप्रान्तः प्रथितः खलु जननिबिडः इति । प्रातः सार्धदशवादनसमये वयं गुरुवायुपुरं समागताः । प्रथितकविः नारायनभट्टतिरिः अत्रैव नारायणीयं व्यरचयत् यत्र भगवतः गोपालकृष्णस्य ख्यातमन्दिरमस्ति । विपिनः कार्-याने एव स्थित्वा आवां मन्दिरं प्रैषयत् । मन्दिरस्य पुरतः भगवद्दर्शनाकाङ्क्षिणां बहुदीर्घा जनशृङ्खला आसीत् । सत्यम् यत् देवस्थानस्य नियन्तारः भक्तानां अनल्पसौलभ्यान् कल्पितवन्तः । तथापि स्थविराणां द्वि-त्रिघण्टापर्यन्तं शृङ्खलायामुपस्थानं दुष्करमेव । आवाभ्यां श्रुतं यत् स्थविराणां प्रत्येकशृङ्खला प्रातःसेवाकाले वर्तते । परं तु प्रातःसॆवा अतीता आसीत् । देवस्थानं प्रविश्य भगवतः क्षणमात्रदर्शनेन तृप्तयोः सत्योः वेला मध्याह्ने द्विवादनमतीता । आवां नितान्तं क्लान्तौ । विना क्लेशं दुर्लभं खलु भगवद्दर्शनम् ।

गुरुवायुपुरात् प्रतिनिवर्तने त्रिस्सूर्- इति पुरमगच्छाम यत्र गुरुवायूपुरदेवस्थानस्य गजपालिका वर्तते । गजपालिकायां त्रिंशद्देशीय गजाः मया संख्याताः । गजस्यैकस्य पालनमेव सुदुष्करम्, किमुत त्रिंशत्गजानामिति वयं विस्मिताः । मार्गे एर्नाकुलस्य अनतिदूरे स्थितं कालडिग्राममपि गतवन्तः यस्मिन् भगवत्शङ्करस्य जन्म क्रिस्तोत्तरनवमशतमाने बभूव। तत्र भगवत्पादस्मारकस्तम्भः शृङ्गपुरमठस्य शाखाश्रमश्च वर्तेते । आश्रमः पूर्णानदीतीरे स्थितः भक्तानामानन्दं शान्तिं च प्रददाति । आश्रमे शारदादेव्याः दर्शनं कृत्वा पूर्णानदीतीर्थमवतीर्य पादौ प्रक्षाल्य पूर्णासीकरैः शिरसि प्रोक्षणं कृत्वा हृष्टौ कार्-याने एर्नाकुलं प्रतिनिवृत्तौ । पूर्णशुल्कप्रदानेन तृप्तः विपिनः आवयॊः शुभमाशास्य आवां आपृच्छ्य गतः । आवाभ्यामपि तस्मै विनयशीलाय आशिषः दत्ताः ।

अपरेद्युः आवां बस्-यानेन कोट्टयम् द्वारा तेक्कडिं गतौ । सर्पवत्कुटिलस्य सततमारोहतः मार्गस्य उभयपार्श्वयोः टी-काफी-क्षेत्राणि दृश्यन्ते यानि बस्-यानात् द्रष्टुं रम्याणि । तेक्कडि तथा कुमिली द्वे परस्परनिबद्धपुरे । एकमेव पुरमिति भाति, काञ्चनप्रदेशान् तेक्कडिं काञ्चन अन्यान् कुमिलीम् उदाहरन्ति । निकटे एव विशालः पेरियार्-कृतकसरोवरश्च अस्ति । तेक्कडि केरलानां गिरिधाम यस्मिन् हेमन्ते शिशिरे च वातावरणं किञ्चित् शीतं तथापि सुखकरं भवति । तदा प्रवासेच्छवः बहुसंख्यया आगच्छन्ति । शैत्यात् रक्षणार्थं आवाभ्यां ऊर्णवस्त्राणि बेङलूरु-नगर्याः आनीतानि । परं तु बेङ्गलूरु-नगरे एव तेक्कडि-पुरादधिकं शैत्यमित्यनुभूतम् ।

तेक्कडिपुरे अस्मदतिथिगृहं गिरेरेकस्य उन्नतप्रदेशे काफीक्षेत्राणां मध्ये अस्ति । लक्ष्मणनाम्ना गृहपालकेन अस्मदानयनार्थं एका त्रिचक्री बस्-निःस्थानं प्रेषिता । तस्याम् आवां अतिथिगृहमागतौ । विषमे ह्रस्वे मार्गे एव आवाम् भीतौ अभवाव कथं दुरारोहादतिथिगृहप्रान्तात्त् पुरस्य अवलोकनं कार्यमिति । दिष्ट्या राजीवेन मद्याच्ञा अङ्गीकृता यत् आवां प्रतिदिनं तस्य त्रिचक्र्यामेव संचराव ।

तत्सायमेव राजीवः आवां कानिचन प्रेक्षणीयस्थलान्यनयत् । प्रथमं तावत् वयम् उपस्करवनमेकं गताः यत्र एला-लवङग-मरिच-पूग-इत्याद्यनेकोपस्करजनकान् वल्लीवृक्षान् अपश्याव । तेषां वर्धनपालनविषयमधिकृत्य प्रभूतं विवरणं वनपालकैः आवाभ्यां दत्तम् । रात्रौ कलरि इति प्रथितं मल्लयुद्धविशेषं च आवामपश्याव । कलरिद्वन्द्वयुद्धं जपानदेशात् प्रसारितेभ्यः जूडो-जुजित्सु-इत्यादि द्वन्द्वयुद्धेभ्यः पुरातनमिति वदन्ति । तेक्कडीपुरे सर्वं प्रेक्षणीयं सशुल्कमेव निश्शुल्कं तु किंचिन्नास्ति ।

द्वितीये अहनि वयं पश्चिमगिरिस्तोमस्य मध्ये विराजमानं पेरियार्-सरोवरं गताः । सरोवरात् परतः निबिडकाननभरिताः गिरयः दृश्यन्ते । सरोवरमार्गेऽपि काननानि वर्तन्ते यस्मिन् यात्रिकानां विहरणार्थं पन्थानः कृताः । कञ्चित्कालं विहारपथे विहृत्य बहुजनवाहकं नावमेकमारुह्य सरोवरे व्यचराव । सरसः तीरे जलमग्नशाखाः तरवः जलस्य उपरि उड्डयमानाः पक्षिणः तीरे निर्मिताः धनिकावासाःश्च नावा द्रष्टुं नितरां मनोहराः भवन्ति । सरसः जलं पातुं जलमवतरतः वन्यप्राणिनः धन्याः पश्यन्ति इति श्रुतम् । परंतु अस्मद्भिः न कोऽपि प्राणी दृष्टः । मैथिली कतिचन चित्राणि चित्रग्राहकेन अगृह्णात् । अधुना चलदूरभाषकः चित्रग्राहकोऽपि भवति खलु ।

अपराह्ने राजीवः शुभ्रं राजस्थानादागतैः स्थापितं श्रीकृष्णनामानं भोजनगृहमनयत् यस्मिन् आवयोः रुचिकरं तृप्तिकरं भोजनं लब्धम् ।

सुशीला मैथिली राजीवस्य कुटुम्बेन मिलितुं अवाञ्छत् । राजीवः तस्य गृहं आवामनयत् यस्मिन् राजीवस्य मातुः भार्यायाः साकम् मैथिली समभाषत । तस्य पुत्र्याः मीनाक्षीनाम्न्याः साकं चित्रग्राहकेन चित्रमगृह्णाच्च ।

तृतीये दिवसे राजीवः टी-क्षेत्राणि निकटे द्रष्टुमावां पीरमेडुनाम पुरमनयत् । लक्ष्मणोऽपि अस्माभिः साकमागच्छत् । टी-क्षेत्रदर्शनादनन्तरं मैथिली लक्ष्मणस्य भार्यया सह सममिलत् या तत्र लघुविपणिं निर्वाहयति । मार्गे नूतनं सुन्दरं क्रिस्तप्रार्थनामन्दिरम् च दृष्ट्वा वयं तेक्कडीम् पुनरागताः ।

लक्ष्मणं यथामति पुरस्कृत्य राजीव-लक्ष्मणौ आपृच्छ्य अपरेद्युः आवां बस्-यानेन एर्नाकुलमागतौ । रात्रौ रेल्-यानमारुह्य सुखसुप्तौ प्रातः बेंगलूरु-नगरमागतौ ।

केरलप्रवासः चित्ताह्लादक: ज्ञानवर्धकश्च अभूत् । केरले सर्वत्र जनाः निस्संशयं सुशीलाः परस्थलादागतानां सहायकराश्च । चलदूरभाषकः नितरामुपयुक्तमुपकरणं येन विना प्रवासः कष्टकरः भवेत् । स्थलभाषाऽविज्ञातॄणां सर्वत्र पर्यटनं न सुकरमिति विदितमेव । परं तु मैथिल्याः मलयाल-भाषायामल्पज्ञानमेव भूर्युपयुक्तमभूत् ।

स्वगृहमागत्य मनस्यचिन्तयम्, " अस्मद्गृहात् सुखतरं न हि किञ्चिदस्ति" ।

---

No comments:

Post a Comment