हास्यसीकरः_२
सायं यदा पुरुषः कार्यालयात् गृहमागतः तदा तस्य भार्या अश्रुपूर्णनयना आसीत् । पुरुषः चकितः खिन्नश्च तामपृच्छत्, "किमिदम्? किं प्रवृत्तम्?" । भार्या अवदत्, " अद्य तव जनन्या परिभूताऽस्मि" । सः अवदत्, "कथमिव वा भवेत्? सा अन्यनगरे वर्तते खलु?" । सा प्रत्यवदत्, "प्रातः तस्याः सकाशात् तुभ्यं पत्रमेकं समागतम् । तत् कुतूहलाविष्टा पिधानमपावृत्य अपठम् । तत्र अन्ते तया लिखितम् ,"प्रिये स्नुषे, कृपया एतत् पत्रं मम पुत्राय देहि" इति ।
- - -
हास्यसीकरः_३
पानलोलः पिता तरुणं पुत्रमात्मना सह पानागारमनयत् । पुत्रस्य इदमेव प्रथमपानमासीत् । उभौ पातुं प्रारभेताम् । पुत्रः प्रारंभ एव पितरमवदत्, “तात, कथय कदा अहं पानात् विरमै ।” कतिपयचषकानापीय पिता पुत्रं स्खलितवाचावदत्, "पुत्र, पश्य तत्र द्वौ दीपौ दृश्येते । यदा चत्वारः दृश्यन्ते तदा पानात् विरमस्व ।" पुत्रः चकितः प्रत्यवदत्, "तात, तत्र एक एव दीपः दृश्यते खलु" ।
- - -
हास्यसीकरः_४
मनोवैद्यालये कश्चन रुग्णः पार्श्वपर्यङ्के निषीदन्तमन्यं रुग्णमब्रवीत्,”भोः, वयस्य, ईश्वरेण अहं जगतः सार्वभौमः नियुक्तोऽस्मि” । “मृषा खलु सा । मया त्वं न नियुक्तोऽसि” इति प्रत्यवददन्यः ।
हास्यसीकरः-५
देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, “भोः, नगर्यां का वार्ता?” । किञ्चिच्चकितः चालकः अवदत्, “आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, “मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति ।सः कः? आर्यः कथयितुमर्हति ।“ देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, “न जाने । सः कः? कथय” इति । उच्चैर्विहस्य चालकः अवदत्, “आर्य, अहमेव” । देवदत्तोऽपि उच्चैर्जहास, “रुचिरं खलु तव कूटम् । तव नाम किम्?” चालकः अवदत्, “मम नाम मोहम्मद् उस्मान्” । “बाढं, त्वं कुत्र वससि?” । “ मुस्लिम् मोहल्लायाः प्रथम वीथ्याम्” । देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कंठस्थमकरोत् ।
अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, “मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्?” इति ।
नरदत्तः प्रत्यवदत्, “ अथ किम्, उत्तरं दातुं यते । कथय ।“ देवदत्तः अकथयत्, “ मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ?“ नरदत्तः चिरं विचिन्त्य अवदत्, “क्षमस्व, उत्तरं न मे भाति “ इति । देवदत्तः उच्चैः विहस्य अवदत्, “सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति” इति । नरदतश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च ।
- - - -
हास्यसीकरः-६
देवदत्तः चिराय अकृतोद्वाहः आसीत् । तस्य सर्वे वयस्याः विवाहिता बभूवुः । बहवः देवदत्तमपृच्छन् , “कुतस्त्वमकृतोद्वाहः वर्तसे? किम् कारणम् ?” इति । देवदत्तस्य इदमेव उत्तरमासीत्, “अहं किं करवाणि? याः कन्याः मह्यं रोचन्ते ताः मम मात्रे न रोचन्ते”। कश्चन वयस्यः नरदत्तनामा देवदत्तमसूचयत्, “वयस्य काञ्चन त्वन्मातृसदृशीं कन्यां निश्चिनु । तदा सा तव मात्रे रोचते” । देवदत्ताय नरदत्तस्य सूचना अरोचत अवदच्च, “बाढम्, तथैव करिष्यामि” इति ।
दिनेषु गच्छत्सु एकदा नरदत्तः देवदत्तेन सह सममिलत् । देवदत्तमपृच्छत्, “ मित्र, त्वं किं विवाहितोऽसि । “ नैव, मित्र” । “कुतः? त्वं मम सूचनां नाङ्गीकृतवान् किम्?” । “मित्र, तव सूचनामनुसृत्य एव कृच्छ्रेण मन्मातृसदृशीं कन्यामेकां अवरयम् । सा मम मात्रे भृशमरोचत । परं तु किं कथयानि?” नरदत्तः अवदत्, “कुतः परं तु? कथय” । देवदत्तः अवदत्, “कन्या मम पित्रे न अरोचत खलु ”।
- - - -
No comments:
Post a Comment