Thursday, March 24, 2011

Sanskrit blog: Humour_8

हास्यसीकरः_८

पतिपत्न्योः वाग्वादः अभवत् । कुपितः पतिः अवदत्, त्वयि विधाता इयत्सौन्दर्यं इयन्मौढ्यं च कुतः अयुजत् ? इति । पत्नी अवदत्, शृणु, विधाता तथा मामियतीं सुन्दरीमकरोत् यथा त्वं मां वृणुयाः । तथा मामियतीं मूढामकरोत् यथाहं त्वां वृणुयाम् इति ।

_ _ _ _

No comments:

Post a Comment