Tuesday, March 22, 2011

Sanskrit blog-Humour_7

हास्यसीकरः_७

अक्बरमहाराजः अमात्यं बीरबलमवदत्, सखे, महाराजोऽप्यहं भार्याधीनः एव भवामि । अतः मम मनः दूयते । किं करवाणि? इति । बीरबलः प्रत्यवदत्, प्रभो, अत्र विचित्रं किम्? चिन्तनीयं किम्? इति । अक्बरः अपृच्छत्, किम् त्वमपि तव भार्याधीनः? इति । बीरबलः अब्रवीत्, निस्संशयं प्रभो अहं भार्याधीन एव । सर्वे गृहस्थाः भार्याधीना एव इति । कथमित्थं ब्रवीषि? अहं भवेयम्, त्वं भवेः, तत्कारणात् सर्वे गृहस्थाः भार्याधीना इति न सिद्ध्यति इति । बीरबलः अगदत्, आज्ञापयतु महाराजः, राजसभामामन्त्रयाव । सभ्यान् सर्वान् अस्मिन् विषये प्रष्टुमर्हति महाराजः । अक्बरेन बीरबलस्य सूचना अङ्गीकृता राजसभा च आमन्त्रिता ।

अक्बरः कुशलप्रश्नानन्तरं सभ्यान् अवदत्, भोः सभ्याः इदानीं राजमंत्रणाय इयं सभा न आहूता । बीरबलः वदति, सर्वे गृहस्थाः भार्याधीना एव इति । अस्मिन् विषये मम संशयः अस्ति । अत एव यूयमत्र आहूताः । ये सभ्याः बीरबलस्य वाक्यमनुमोदन्ते ते मम वामपार्श्वे आगत्य निषीदन्तु । ये नानुमोदन्ते ते मम दक्षिणपार्श्वे आगत्य निषीदन्तु इति । बहवः राज्ञः वामपार्श्वे एकैकशः आगत्य न्यषीदन् । एक एव राज्ञः वामपार्श्वं न जगाम । अन्ततः सः शनैः चलन् राज्ञः दक्षिणपार्श्वमागत्य न्यषीदत् । विस्मितः राजा तमपृच्छत्, सखे, किमिदम्? त्वमेक एव बीरबलमतं नानुमोदसे? । सः मन्दं मन्दमुत्तरमब्रवीत्, प्रभो, एतद्विषये किमपि वक्तुं न समर्थोऽस्मि । मयि निर्गच्छति गृहात् मम भार्या मामवोचत्, कदापि जनवृन्दं मा प्रविश इति । अत एव अहं वामपार्श्वं नागच्छम् इति।

- - - -

No comments:

Post a Comment