Thursday, March 17, 2011

हास्यसीकरः_१

रजन्यां तस्य कार्यनिरता माता तमवदत्,"वत्स, गृहपृष्ठे संमार्जनी कोणे वर्तते तामानय" इति। बालः प्रत्यवदत्, " अहं न गच्छामि ।बहिः गाढः अन्धकारः" इति। माता प्रत्यवदत्, "मा भैषीः, ईश्वरः सर्वदा सर्वत्र तव रक्षकः भवति । भयं परित्यज्य गच्छ " इति । भीतः बालः पुनरवदत्, "अम्ब, ईश्वरः अधुना गृहपृष्ठेऽपि वर्तते किम् ।" माता अवदत् "निस्संशयं वत्स" इति । बालः, "बाढं गच्छामि" इति वदन् गृहपृष्ठद्वारपर्यन्तमगच्छत् । तत्र स्थित्वा कवाटमीईषदुद्घाट्य अवदत्, "ईश्वर, कृपया कोणे स्थितां संमार्जनीं मह्यं देहि" इति।

- - - -

No comments:

Post a Comment