Saturday, October 31, 2015

Sanskrit blog: Chandrika (A fairy tale)-9

चन्द्रिका-९

चन्द्रिकापि युवतिप्रभां दधौ
फुल्लदुच्चकुचकुड्मलश्रिया ।
प्रापतुश्च जघने विशालताम्
कापि मोहकरुचिर्मुखे बभौ ॥ ३९ ॥

लोलमुग्धपरिधावकेक्षणैः
वायुनुन्नतनुनीलकुन्तलैः ।
भीरुताक्तमृदुहासविभ्रमैः
नूपुरध्वनितमन्दसङ्क्रमैः ॥ ४० ॥                           

आचकर्ष वनिता अपि क्षणात्
चन्द्रिका ससुखमायतेक्षणा ।
किं पुनर्युवजनान् महापुरे
यौवनज्वरसुतप्तदेहिनः ॥ ४१ ॥

चन्द्रिकामहमपश्यमापणे
नेत्रमेलनकृतौ तया सह ।
प्राप्तसौख्यमतुलंत्वितीरितं
स्नेहितेषु तरुणेन केनचित् ॥ ४२ ॥

मद्गृहस्य पुरतः प्रयाति सा
प्रत्यहं मम हि भाग्यदेवता ।
इत्यवोचदपरः कृती युवा
यौवनस्य विविधा गतिर्ध्रुवम् ॥ ४३ ॥
- - - - 

No comments:

Post a Comment