चन्द्रिका-८
बाष्पार्द्राक्षीमात्मजां सान्त्वयित्वा
कोपाक्रान्तां स्मेरवक्त्रां चकार ।
क्षुद्बाधां स्वां लीलया नावलोक्य
प्रादादन्नं पीडयन्त्यै सुतायै ॥ ३४ ॥
सोढ्वा पुत्र्या दुर्नयं बाल्यजातं
तस्यै वृत्तिं सज्जनानां शशास ।
स्वच्छायायां आश्रितां वृक्षवत् सा
पुत्रीं सम्यक् सर्वकाले ररक्ष ॥ ३५ ॥
सर्वं कालात् क्षीणतां गच्छतीति
प्राज्ञानां सद्भाषितस्यानुरोधात् ।
शान्ता भूत्वा चन्द्रिका जन्मदस्य
सेवां कर्तुं गूढबाधा प्रयेते ॥ ३६ ॥
तातस्सोऽपि स्वात्मजाप्रीणनाय
पत्नीप्रेम्णा वञ्चितोऽपि स्वदुःखम् ।
गूहन्तस्याः शिक्षणारोग्यवृद्ध्यै
पुत्रीवक्त्रस्मेरबिम्बैर्ननन्द ॥ ३७
॥
काले याते वाणिजो कामविद्धः
भार्यामन्यां लब्धुमिच्छामवाप ।
चित्रं नैतत् जीविनां स्त्रीसुखेच्छा
सर्वेच्छासु प्रायशः दुर्निवार्या ॥ ३८ ॥
- - - -
No comments:
Post a Comment