चन्द्रिका-६
सिद्धो वृद्धो तां दयापूर्णदृष्ट्या
ऽपश्यत् पश्चात् मीलिताक्षो बभूव ।
पश्यन्ती सा तं मुनिं ध्यानमग्नं
भ्रान्ते चित्ते कामपि प्राप शान्तिम्
॥ २४ ॥
शूलं व्याधेः तत्क्षणादेव नष्टं
दीप्ते दीपे ध्वान्तवत् गेहकक्षे ।
विस्मृत्याधिं शान्तचित्ता ययाचे
साधौ पश्यत्यञ्जसोन्मील्य नेत्रे ॥ २५
॥
आश्चर्यं मे ग्लानिरन्तर्दधाति
त्वत्कारुण्यौघप्लाविता वल्लरीव ।
मद्देहार्थं कामये नापि किञ्चित्
भूयात् पुत्र्याः मेऽद्वितीयार्थयोगः॥
२६ ॥
ज्ञानी तस्याः प्रार्थनां स्मेरवक्त्रः
शृण्वन् तां स्वप्रेमदृष्ट्याभ्यषिञ्चत्
।
माभीर्वत्से इत्यवोचत्तथैव
प्रादात् पुत्र्यै गुह्यमन्त्रोपदेशम्
॥ २७ ॥
कुर्यान्मन्त्रस्य प्रयोगं त्रिरेव
नो चेत् बाले निष्फलत्वं स गच्छेत् ।
तस्मात् कृच्छ्रेष्वेव मन्त्रप्रयोगः
भूयान्मैतद्विस्मर त्वं कदापि ॥ २८ ॥
- - - -
No comments:
Post a Comment