चन्द्रिका-७
इत्थं सिद्धश्चन्द्रिकां बोधयित्वा
हर्षोत्सिक्तां तां क्षमामित्यवोचत् ।
विश्वेऽनित्ये शाश्वतं नास्ति किञ्चित्
निश्चिन्ताभूः न्यस्य भारं रमेशे ॥ २९
॥
साधुप्रोक्तां वाचमास्वादयन्ती
पुत्र्या साकं सा क्षमा शान्तचित्ता ।
प्रत्यावृत्ता स्वालयं नष्टभीतिः
सन्तः पोष्यश्रेयसे सिद्धहस्ताः ॥ ३०
॥
चित्तं तस्याः शारदाकाशतुल्यं
स्वच्छं शान्तं सर्वदाभूत्तथापि ।
प्राप्तिः तस्याः संसृतौ सीमितासीत्
रोगार्तागादूर्ध्वलोकं जवेन ॥ ३१ ॥
तस्याः पुत्र्याः शोकसंप्लावितायाः
को वा लोके सान्त्वनं हन्त कुर्यात् ।
मातृप्राया का भवेदर्भकस्य
मातानन्या देहिनां सर्ववन्द्या ॥ ३२ ॥
मातू रूपं दृश्यते सर्वतोऽस्याः
वाण्यस्पष्टं श्रूयते सर्वकाले ।
स्पर्शः स्निग्धः भासते स्वप्नमध्ये
वात्सल्यार्द्राह्वानशैली न लब्धा ॥ ३३
॥
- - - -
No comments:
Post a Comment