Monday, March 5, 2012

Sanskrit blog: Humour-43

हास्यसीकरः-४३
शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम्
 उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति इति। शुश्रूषिका प्रत्यवदत्, भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु? इति । ब्रह्मदत्तः प्रत्यवदत्, भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु! इति । 
- - - -

No comments:

Post a Comment