Wednesday, March 28, 2012

Sanskrit blog: Einstein is indeed right!

ऐन्श्टैनस्य सापेक्षतावादः जेजीयते खलु।
महतः विज्ञानिनः ऐन्श्टैनस्य सापेक्षतावादः कथयति,  न किञ्चिदपि द्रव्यं द्युतेः द्रुततरं गच्छतीति । परंतु परुत् सेप्टम्बरमासे ओपेरानाम विज्ञानिनां वृन्दं न्युट्रिनोनामा अतिसूक्ष्मकणः कृतप्रयोगे  द्युतेः द्रुततरं प्राद्रवत् इति उदघोषयत् । जगतः विज्ञानिनाम् वृन्दे महत्कोलाहलमभूत् । न्युट्रिनोकणः एलेक्ट्रान्कणवत् परमसूक्ष्मः । परंतु अस्मिन् कणे विद्युदंशः(charge) नास्त्येव । अस्य द्रव्यांशः(mass) एलेक्ट्रान्द्रव्यांशात् अपि अतिन्यूनतरः । विद्युदंशविरहितः अयं कणः द्रव्यनिवहेषु सलीलं प्रद्रवति । ऐन्श्टैनस्य सापेक्षतावादः नैकप्रयोगैः प्रमाणीकृतः मिथ्या अभवत् किम् इति प्रश्नः उदभवत् । प्रयोगस्य पुनः करणे कानिचन विज्ञानिनां वृन्दा्नि प्रायतन्त ।
इदानीं ऐकारस्नाम वृन्दं प्रयोगं पुनः कृत्वा कथयति, न्युट्रिनोसूक्ष्मकणोऽपि ऐन्श्टैनस्य सिद्धान्तं नातिचरति इति । भौतविज्ञानिनः अस्मिन्विषये निश्चिन्ता अभवन् । ऐश्टैनस्य सापेक्षतावादः जेजीयते खलु ।
- - - - 

No comments:

Post a Comment