Friday, March 23, 2012

Sanskrit blog: Humour-44

हास्यसीकरः-४४
कस्मिन्श्चिद्ग्रामे प्रह्लादचरित्रम्नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः   प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्? इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, निस्संशयम्, तात इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थलेदक्षिणस्तम्भं दर्शयन्, बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्”” इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति इति वदन् वामस्तम्भमदर्शयत् ।
- - - - 

No comments:

Post a Comment