हास्यसीकरः-४५
सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, “ दशमीटर्-मितवस्त्राय कति रूप्यकाणि?”. युवा स्मितवदनः अवदत्, “सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयाः" इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, “बाढम्, दशमीटर्मितं वस्त्रं देहि” इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, “अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति” इति ।- - - -
No comments:
Post a Comment