Saturday, August 27, 2011

Sanskrit blog: The obituary (A short story)


मरणनिवेदनम्

आगन्तुकामायां सन्ध्यायां वीथीदीपेषु तदानीमप्यदीपितेषु यदा मम स्वसा मामतर्जयत्, कुतस्त्वं तव गृहपाठं न सम्यक् कृतवती इति, अहं गृहदेहल्यां स्थिता अरुदम् । सन्ध्यामन्दप्रकाशे वीथ्यां मम निकटमागच्छन्तीं काञ्चिदहमपश्यम् । तस्यै स्वागतं वक्तुमहं प्रसन्नतां प्राप्तुमयते । सा मम वयस्या प्रभा इत्यहमभ्यजानां यदा सा अस्मद्गृहसोपानमारुह्य मम वामहस्तमगृह्णात् । विवर्णवदना प्रभा मम हस्तमात्मनः कम्पमानहस्ते प्रगृह्य उच्चैः रोदितुं प्रारभत । अहमपि रोदितुं प्रारभे । कतिपयक्षणादेव प्रसन्ना भवन्ती प्रभा मां मन्दस्वरेण अवदत्, पुष्पे, मा रुदः । दुःखदः उदन्तः मया इदानीं सायमेव अवगतः । मम पिता अद्यतनदिनपत्रिकायां मरणनिवेदनमपश्यत् मह्यमदर्शयच्च । इदं कथं समभवत्? इति । अश्रूणि प्रमृज्य अहमवदम्, किम्? किं समभवत्? इति । तव पिता, तव पिता इति वदन् सा बाहुमूले निहितां दिनपत्रिकां मम हस्ते न्यधात् ।
यावदहं पत्रिकां प्रसार्य पठितुमारभे तावदेव मम पिता गंभीरवदनः गृहाद्बहिरागच्छत् । भयत्रस्ता प्रभा झटिति परावृत्य अस्मद्गृहाङ्गणात् अधावत् । अहं रुदन् मम पितरमवदम्, प्रभा वदति तव मरणनिवेदनं पत्रिकायां प्रकटितमिति । मम पित्रा मम हस्तात् पत्रिकायां द्रुतं कृष्टायां, वीथीदीपाः दीपिता अभवन् । यावत् तेन स्वचित्रं पत्रिकायामभिज्ञातं तावदेव सः प्रसन्नवदनः हसितुमारभत अवदच्च, आम्, प्रकटनं मया एव निर्दिष्टम् इति । गद्गदगिरा अहं तमपृच्छम्, तात, कुतः,कुतः इति । सः मां सोत्कण्ठमाश्लिष्य, मम केशपाशं स्पृशन्नवदत्, वत्से, कुतः रोदिषि? अहं त्वत्समक्षमेव तिष्ठामि खलु ! मह्यं  मन्मरणसूचकं शकुनमेकमभवत् । मरणसूचकशकुनप्रतिक्रियार्थं अतथ्यमरणकिंवदन्तीं प्रसारयेदिति दैवज्ञाः कथयन्ति । अत एवाहं तथा अकरवम् । अवगतं खलु ? मा रुदः इति । पित्रा विगलिते बाहुबन्धे अहं हर्षात् उदपतम् ।
X X X
सुप्ताहं हस्ते मत्पितृमरणनिवेदनधरां दिनपत्रिकां गृह्णन्नेव शय्यायाः अधः अपतम् । झटिति जागृताया मम कतिपयदिनात् प्राक् वीथीदुर्घटने मृतः मम पिता न पुनरागमिष्यतीति यथार्थज्ञानं चाभवत् ।
[ममेयं लघुकथा ईषद्रूपान्तरिता कथाक्षेत्रे नाम्न्याम् इंग्लिष्-त्रैमासिकपत्रिकायां प्रकटिता आसीत्]
- - - -

No comments:

Post a Comment