हास्यसीकरः- २२
कश्चन सज्जनः मुहुर्मुहुः उत्प्लवमानं द्वारघण्ठासंघट्टने सततम् प्रयतमानं कमपि वामनं बालकं कस्यचिद्गृहस्य पुरतः अपश्यत् । बालकस्य साहाय्यार्थं सः सज्जनः तत्समीपं गत्वा द्वारघण्ठां समघट्टयत्, आत्मनः सुकृत्या नितरां प्रीतश्च तमवदत्, “तव ईप्सितं प्राप्तं खलु । अद्य किं करवाव?” इति । किशोरः “ किं करवाव? आवां द्रुतं धावाव” इत्युच्चैर्वदन् सपद्येव अधावत् ।
- - - -
No comments:
Post a Comment