Monday, April 4, 2022

प्रहेलिका-२

 प्रहेलिका-२

सममिलन् पशुमृगापणे त्रयो रविविधू गुरुस्तयोः  सखा                       

रविरुवाच “तुरगाय ते सखे मम गृहाण षडजानिमान्विधो                                

पशुगणान्मम तदा भविष्यति द्विगुणितो तव गणः शुभावहः 

यदि ददासि तुरगं सखे रवे प्रतिददामि शशकान् चतुर्दश

त्रिगुणितस्तव गणश्च मामकाद्भवति हीत्यवदत्सुहृद्गुरुः 

विधुरुवाच विहसन्मनाग्गुरुं “नय ममाजचतुष्टयमञ्जसा ॥         

यदि ददासि शशमत्र मामकात् तव गणो भवति  षड्गुणम् सखे

वद  तवास्ति गणिते  विदग्धता कति भवन्ति पशवो गणत्रये ॥४ ॥

-  -  -  -  

प्रथमप्रहेलिकामुद्दिश्य

अन्वयः : काचित् [स्त्री] स्वप्रियेण मेलितुं सायं पतिगृहम् अगात् । प्रातः याताध्वनि हि विचरन्ती स्वगेहं निवृत्ता । प्रथम दिवसे तस्या वेगः घण्टायां ६००० मीटर् [आसीत्]. इतरदिने [तस्या वेगः] केवलं तदर्धः चेत्, भोः सुहृत्, [त्वं] चतुरः यदि,  [तस्याः] वारिजाक्ष्याः माध्यं वेगं द्राक् वद ।  

विवरणम्: अध्वा ‘क’ सहस्रमीटर् भवतु । प्रथमदिवसे तस्याः वेगः ६००० मीटर् घण्टायाम् । चलनकालः = क/६००० घण्टाः। द्वितीय दिवसे वेगः ३००० मीटर् घण्टायाम् । अध्वा ‘क’ एव । चलनकालः=क/३००० घण्टाः। सा आहत्य २क दूरं क[(१/६०००)+(१/३०००)] काले गच्छति। अतः तस्याः माध्यवेगः २क/{[क/६०००][१+२]} = ४००० मीटर् घण्टायां भवति ।

- - - -

No comments:

Post a Comment