Monday, April 18, 2022

प्रहेलिका-६

 प्रहेलिका-६

गृहस्थो भार्याचाप्रतिमसुखदं पुत्रयुगलं

तरण्या तेरुस्ते शुनकसहिताः स्वच्छसरितम् ।

किलोग्राम्मान् षष्टिं वहति हि नौका न तदधिकम्

अहो पत्न्याः पत्युः च स भवति भारो न सुकरः ॥

पितुर्भारस्यार्धः भवति यदि भारः लघुतनोः

सुतस्येकैकस्य प्रियशुनकभारस्त्वगणितः

कथं सिन्धुं त्तेरुः कथय कति वारं तरति नौः

यदि त्वं संख्याने पटुरसि विदग्धा सहजधीः ॥

----

No comments:

Post a Comment