Tuesday, April 12, 2022

प्रहेलिका-५

 जायापतीनां प्रजगाम पञ्चकः क्रीडाविलासाय महावनं प्रति ।

तत्रत्यनद्यास्तरणाय नाविकात्  जग्राह नौकां सुदृढां मनोहराम् ॥      

स नाविकस्तानवदच्च दम्पतीन् जनत्रयं मात्र मियं वहेत् खलु ।

पुमांस ऊचुः न हि खेदकारणं निषेध एषोपि न लङ्घ्यते खलु॥

नोपस्थिते भर्तरि नानुमन्यते ह्यन्येन पुम्सा सह वर्तनं स्त्रियाः ।

अमू पुरस्कृत्य विधी स पञ्चकः कथं नदीं तां विततार पण्डिते॥

No comments:

Post a Comment