Sunday, April 17, 2022

मानकपरिभाषा

मानकपरिभाषा

पैसा हि मुद्रा नवभारतेऽस्मिन् तासां शतं रूप्यकनाम धत्ते

भारस्य मानं खलु सर्वकारेणाङ्गीकृतं ग्राम्म इति प्रसिद्धम् ।

ग्राम्माभिधानां यदि चेत् सहस्रं केजी किलोग्राम्म इति ब्रुवन्ति ।

तेषां  शतं  क्विंटलनाम  धत्ते तेषां दशाप्नोति हि टन्ननाम ॥ 

सेकण्ड एवेह हि कालमानं षष्टिस्तु तेषां मिनटाभिधः  स्यात् ।

तेषां हि षष्टिः प्रथिता हि घण्टा ततः परं सर्वजनैः  सुवेद्यम् ॥

दैर्घ्यस्य  मानं  खलु  नाम  मीटरो विभज्यते  सः  शतसेन्टिमीटरैः ।

जनः सहस्रं खलु मीटराणां ब्रूते किलोमीटरमत्र देशे ॥

तलस्य  मानं  खलु  वर्गमीटरं  वदन्ति तेषामयुतं  हि  कथ्यते 

हेक्टेरनाम्ना  बहुशो  प्रयुज्यते  क्षेत्रप्रदेशे  तलमानकर्मणि     

आकारमानं  घनसेन्टिमीटरः    सीसिनाम्ना  क्वचन  प्रयुज्यते 

तेषां  सहस्रं  द्रवमानकर्मणि  प्रयुज्यते  लीटर  इत्युदीर्यते 

----

 

No comments:

Post a Comment