चन्द्रिका-७२
सप्रश्रयं स्वजननीं प्रणिपत्य
पुत्र्यौ
बाष्पावरुद्धवचसागदतां
विनम्रे ।
अद्यप्रभृत्यपगतं तव कृच्छ्रजातम्
अस्मद्गृहे गतभया सुखमास्व
मातः ॥ २५६ ॥
माता विहस्य जनसंसदि सानुतापं
लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ
।
तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा
नास्तीह कार्यमधुना मम जागृताहम् ॥
२५७ ॥
वाराणसीं जिगमिषामि ममात्मशान्त्यै
पायात् हरिः पुरजनान् सकलांश्च युष्मान्
।
यस्यांघ्रियुग्ममनिशं मनुजाः स्मरन्तः
विन्दन्ति
शाश्वतसुखं तमहं श्रयामि ॥ २५८ ॥
- - - -
No comments:
Post a Comment