आर्ये
आर्ये छन्दोविज्ञाः निरूपयन्ति
तव लक्षणं सुभगे ।
एवं यत्कविवर्याः सुकरमनुसरन्ति
विश्रब्धाः ॥ १ ॥
मात्राश्चत्वारोऽत्र गणे तादृक्सप्त
सन्ति पूर्वार्धे ।
अन्ते गुरुश्च विषमो
न भवति जगणस्तु
षष्ठो जः ॥ २ ॥
अथवा सर्वलघुः प्रथमलघोः
पश्चाद्यतिर्नियमितश्च ।
सप्तमगणो यदा सर्वलघुः यतिरेव
षष्ठान्ते ॥३ ॥
अपरार्धेऽपि हि सप्तगणाः षष्ठो
भवति लघुरिति नियमश्च ।
तुर्यान्ते हि यतिः पञ्चमे तु सकललघुकृते सति ॥ ४ ॥
आर्ये नियमैरेतैर्बद्धाऽपि कविवरकौशलबलात्त्वम् ।
कमनीया भासि सुमधुरपदैस्समुचित सरसभावैः
॥ ५ ॥
भासभवभूत्यमरुकालिदासगोवर्धनादिकविसृष्टैः ।
नाहं कविर्नविपश्चिदपि चापल्येन
प्रचोदितः ॥ ६ ॥
त्वां शिथिलितनियमामेवं मम
सौकर्यमेव समीक्ष्य ।
निरूपयामि क्षमस्व तव सुषमा
ह्रासमविन्दत् किम् ॥ ७
॥
पूर्वार्धे सप्तगणाः सन्ति
चतुर्मात्राः गुरुरन्ते ।
उत्तरस्मिन् भवति षष्ठगणस्य स्थाने
लघुरेकलः ॥ ८ ॥
सर्वे पञ्चविकल्पाः सर्वत्र
यथामतिप्रयोज्याश्च ।
द्वादशमात्रान्ते यतिरवश्य उभयार्धयोरत्र
॥ ९ ॥
इत्थं शिथिलितनियमां त्वां रचयाम्यत्र कथय तव रूपम् ।
विदुषां भोग्यं न भवति किं मयि रुष्टा भवसि वद माम् ॥ १० ॥
----
6 to 12 class (sanskrit ) materials available this site :- https://www.samskrittutorial.in
ReplyDeletesanskrit class 8 :- https://play.google.com/store/apps/details?id=com.kesu.aptech.samskrit
Samskrit materials(videos/pdf/script) available app (application )
6 to 12 class app also available play store, search on samskrit promotion or samskrit tutorial. https://play.google.com/store/search?q=samskrit%20tutorial
ReplyDeleteSanskrit is a classical language of India, which is still used as a religious and ceremonial language, and as a spoken language to some extent. Sanskrit Vyakaran is a way to learn sanskrit officially.