चन्द्रिका-२२
मन्द्रस्पष्टश्लक्ष्णवर्णाभिरामैः
वात्सल्याक्तप्रेमपूर्णैर्वचोभिः ।
वीणानादान्मञ्जुलैः सान्त्वयन्ती
भीतां कन्यां दिव्ययोषित् बभाषे ॥ ९१ ॥
मा भीर्वत्से विद्धि मां त्वत्सहायां
मातृप्रायां त्वत्सुखोदर्ककर्त्रीम् ।
प्रोक्तैर्मन्त्रैः सत्वरावाहितास्मि
किं ते कार्यं किं च कृच्छ्रं वदास्ति ॥ ९२ ॥
तस्या देव्याः शीतलैः स्निग्धवाग्भिः
नष्टे तापे भीरुतां द्राग्विहाय ।
देवीं भक्त्या चन्द्रिका सम्प्रणम्य
मन्दं मन्दं प्रश्रिता प्रत्युवाच ॥ ९३ ॥
देवि त्वं मे प्रार्थनां पूरयस्व
सर्वे कार्याण्यद्य मह्यम् विमात्रा ।
निर्दिष्टान्यन्यूनमारात्समाप्तिं
यान्तु त्वकारुण्यशक्तिप्रसादात् ॥ ९४ ॥
वत्से कार्यस्थानमादेशयेति
प्रोक्ता यावत् पाकशालां निनाय ।
गच्छ्न्त्यग्रे चन्द्रिका तावदेवा-
पश्यत् भ्रान्ता कल्पनातीतदृश्यम् ॥ ९५ ॥
- - - -
No comments:
Post a Comment