Saturday, January 16, 2016

Sanskrit blog: Chandrika (A Fairy tale)-20

चन्द्रिका-२०

योमासीत्प्राक्चन्द्रिकायाः सखीव
सा मेने तामात्मकर्मार्थदासीम् ।
तस्याः भूषावेशरूपक्रियासु
दासीवत्तां चन्द्रिका सेवते स्म ॥ ८४ ॥

इत्थं दासीकर्मसु न्यस्तचित्ता
श्रान्ता कार्यात् सज्वराभूत्कदाचित् ।
मान्द्यं तस्याः वीक्षमाणा विमाता
भूयो भूयो दण्डयामास तन्वीम् ॥ ८५ ॥

कोपाविष्टान्यानि कार्याणि चैव
कर्तुं तामाज्ञापयत् निर्घृणा सा ।
यस्या आसीन्नित्यकार्यंह्यशक्यं
तस्या साध्यं किं भवेदन्यकार्यम् ॥ ८६ ॥

एकत्रासीत् श्यामलः पात्रराशिः
अन्यत्रासीत् कश्मला वस्त्रपङ्क्तिः ।
किं कर्तव्यं चिन्तयन्तीत्यकस्मात्
सस्मारार्ता पूर्ववाक्यानि साधोः ॥ ८७ ॥
- - - - 

No comments:

Post a Comment