Friday, January 1, 2016

Sanskrit blog: Chandrika-(A fairy tale)-18

चन्द्रिका-१८

xxx
यस्याः हस्तौ कन्दुकक्रीडयास्तां
रक्तावद्यप्रापतुःकृष्णवर्णम् ।
स्थालीवेश्मक्षालनाच्चन्द्रिकायाः
काले हन्त श्लक्ष्णतां त्यक्तवन्तौ ॥ ७८ ॥

या लेखन्या पत्रपृष्ठे व्यलेखीत्
सा शोधन्या मार्जने न्यस्तचित्ता ।
या विद्यार्थं पाठशालां जगाम
साद्य क्रेतुं पण्यशालामुपैति ॥ ७९ ॥

यस्याः वक्त्रं सर्वदासीत्स्मिताक्तं
अद्य म्लानं भीतिपूर्णं विवर्णम् ।
यासीत् कन्या प्रस्फुरच्चञ्चलाक्षी
साभूद्दीना व्याघ्रभीता मृगीव ॥ ८० ॥  
- - - -

No comments:

Post a Comment