Saturday, December 26, 2015

Sanskrit blog: Chandrika (A fairy tale)-17

चन्द्रिका-१७

क्व गार्हकार्यं क्व च पेलवाङ्गी
किं मार्जनाय प्रभवेत् शिरीषम् ।
मयूरपिच्छं खननाय वा किम्
चन्द्रातपः तण्डुलशोषणाय ॥ ७५ ॥

सा चन्द्रिका पाककलानभिज्ञा
नियोजिता पाकगृहे विमात्रा ।
सर्वाणि दैनंदिनखादनानि
पक्तुं सकाले खलु निस्सहाया ॥ ७६ ॥

प्रक्षालनं वेश्मतलस्य पात्र-     
सम्मार्जनं चांशुकधावनं च।
सर्वाणि कार्याणि हि चन्द्रिकायाः
भारा अभूवन् विधिदुर्विपाकात् ॥ ७७ ॥
- - - - 

No comments:

Post a Comment