Sunday, December 20, 2015

Sanskrit blog: Chandrika (A Fairy tale)-16

चन्द्रिका-१६

दासाश्च दास्यः भृतिमात्रतुष्टाः
भृतिं विना तत्यजुराप्तसेवाम् ।
अन्याश्रयं भक्तुमनन्यमार्गा
मृगा इवारण्यमवग्रहार्तम् ॥ ७२ ॥

कर्माण्यनेकानि गृहोचितानि
भूमार्जनादिश्रमसाधितानि ।
भृत्यैर्विना कर्तुमसाध्यमासीत्
यदा कलागात् कुपथं तदैव ॥ ७३ ॥

सुखोचितां भर्तृसुतां विमाता
न्ययोजयत् कर्मणि दासयोग्ये ।
सम्पद्यमानासु विपत्सु नॄणां
मनांसि नूनं कलुषीभवन्ति ॥ ७४ ॥
- - - -

No comments:

Post a Comment