चन्द्रिका-१४
पुत्री पुरैवाभिहता नियत्या
मातुर्वियोगादधुना पितुश्च ।
मृतिं दुरन्तां सहसा निशम्य
दुःखाम्बुधौ गाढतरं ममज्ज ॥ ६४ ॥
मात्रा विहीना कृपणा सुतप्ता
कथं सहिष्ये जनकस्य मृत्युम् ।
दैवं हतं हन्ति पुनः सदेति
तथ्यं वचो हन्त मयानुभूतम् ॥ ६५ ॥
वृक्षान्निपत्य व्रणितं शयानं
बुभुक्षितो द्रागवधीन्मृगेन्द्रः ।
दारिद्र्यकूपे पतितं क्षुधार्तं
ददंश घोरः क्षयरोगसर्पः ॥ ६६ ॥
पितः कथं मामबलां विहाय
गन्तासि कृत्वा तनयामनाथाम् ।
वात्सल्यपूर्णामृततुल्यवाग्भिः
को प्रीणयेन्मां सततं त्वदन्यः । ६७ ॥
एवं प्रकामं रुदती कुमारी
स्वबाष्पधारार्द्रमुखी त्रियामाः।
निनाय नैकाः प्रततान्धकारे
निरस्तनिद्रा हृदि चन्द्रिका सा ॥ ६८ ॥- - - -
No comments:
Post a Comment