Saturday, December 12, 2015

Sanskrit blog: Chandrika (A fairy tale)-15

चन्द्रिका-१५
शरीरयात्रा पुरतो हि गच्छेत्
दुःखं सुखं चाविगणय्य लोके ।
कलापि कौटुम्बधुरं वहन्ती
वाणिज्यवृत्तौ निरता बभूव ॥ ६९ ॥

कदापि पूर्वं न नियुक्तचित्ता
वाणिज्यकार्ये गृहिणी कला सा ।
एकाकिनी पण्यकलानभिज्ञा
भर्तुः पदे कर्तुमियेष वृत्तिम् ॥ ७० ॥   

आवर्तपूर्णां सरितं गभीरां
कथं तरेत् संप्लवनासमर्थः।
भर्तृक्रियाकौशलसंश्रिता श्रीः
काले गते क्षीणतरा बभूव ॥ ७१ ॥
- - - - 

No comments:

Post a Comment