चन्द्रिका-१३
द्वितीयवैधव्यमवाप्य योषित्
स्वभागधेयानि भृशम् जगर्हे ।
मां प्राप्य दैवोपहतामधन्यां
हा नाथ मृत्योर्वशमाप्तवान् त्वम् ॥ ५९
॥
गाथास्ति पापी यदि याति सिन्धुं
तत्रापि गुल्फौ न जलेन सिक्तौ ॥
त्वां सद्गुणाढ्यं परिणीय यन्मे
वैधव्यदुःखं पुनरप्यवाप्तम् ॥ ६० ॥
लब्ध्वा तरोराश्रयमार्तवल्ली
ननन्द धृत्वा स्मितकुड्मलानि ।
तस्याः सुखं तत् क्षणिकं बभूव
बभञ्ज वृक्षं सहसा गजेन्द्रः ॥ ६१ ॥
उत्तुङ्गसौधान् विरचय्य चित्ते
तत्रावसं वैभवदर्पयुक्ता ।
अहंत्विदानीं विभवैर्विहीना
कथं करिष्यामि कुटुम्बरक्षाम् ॥ ६२ ॥
इत्थं प्रलप्य प्रणता चिरेण
पुत्र्यौ निरीक्ष्याश्रुमुखी कुमार्यौ
।
तयोर्भविष्यच्छुभकामनार्थं
कृच्छ्रेण सा तत्र समाहिताभूत् ॥ ६३ ॥- - - -
No comments:
Post a Comment