हास्यसीकरः-१०६
परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा
तस्याः स्वामिनीं प्रार्थयत्,“भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि” ।
स्वामिनी सगर्वमपृच्छत्, “वृद्धिः
कुतः?” ।
परिचारिका प्रत्यवदत्, “भवति, त्रीणि
कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा” ।
स्वामिनी रुष्टा अपृच्छत्, “को वदति
त्वं चतुरतरा इति?” ।
परिचारिका: “भवत्याः भर्ता । किञ्च अहं
पाककलायामपि भवत्याः चतुरतरा”।
स्वामिनी: “मृषा खलु। को वदति इत्थम्?”
परिचारिका: “भवति! भवत्याः भर्ता एव ।
अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।“
स्वामिनी (सरोषम्) “ हञ्जे! पुनः मम
भर्ता अवदत् किम्?”
परिचारिका: “नहि, नहि, भवत्याः निष्कुटपालकः
अवदत्” ।
स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं
परिचारिकाम् अपृच्छत्, “भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?”
- - - -
No comments:
Post a Comment