Saturday, September 20, 2014

Sanskrit blog: Conversations between a couple-11

पतिपत्नीसंलापः-११



कच्चित् प्रिये स्मरसि ते भिषजा प्रदत्ते
जानुव्यथाप्रशमके गुटिकेऽशितव्ये ।
हन्ताधुना स्वतनुपालनकार्य एव
स्वाधीनता यदि हि सिद्ध्यति सा प्रशस्या ॥ ४४ ॥

कच्चित् प्रिय स्मरसि मामकसुप्तिमोहः
पूर्वं त्वयोपहसित:बहुशोऽधुना वै ।
निद्राऽऽगता यदि तदा शिथिलं शनैश्च
आलिङ्गति त्वमिव शान्तमनोजवह्निः॥ ४५ ॥ 

कच्चित् प्रिये स्मरसि नौ स्मरचापविद्धौ
संश्लेषचुन्बनरतौ तरुणौ इदानीम् ।
प्रेमानिलप्रशमितः मदनङ्गवह्निः
प्रेम त्वहो त्वयि विवर्धत एव नित्यम् ॥ ४६ ॥

कच्चित् प्रिय स्मरसि मां नवयौवनस्थां
मिष्टान्नभोजनसुखेष्वमिताभिलाषाम् ।
अद्यत्वहं मधुरभक्ष्यसुखान्निवृत्ता
तृप्ता तवातिमधुरैःस्मितपूर्ववाग्भिः ॥ ४७ ॥

कच्चित् प्रिये स्मरसि मे लवणे स्पृहां ताम्
व्यज्ञापयः खलु हिताय न सेति पूर्वम् ।
संप्रत्यहो मदशने लवणं निषिद्धम्
लावण्यमेव तव देवि भवेदलं मे ॥ ४८ ॥

कच्चित् प्रिय स्मरसि सानुनयं त्ववादीः
संवाहयामि तव पादयुगं दिनान्ते ।
क्लान्तास्म्यवश्यगृहकर्मभरेण नाथ
तां संविदं सफलय प्रसभं गुणाढ्य ॥ ४९ ॥

कच्चित् प्रिये स्मरसि केशवपादयुग्मम्
सर्वामयप्रशमकं शरणागतानाम् ।
संस्मृत्य यत् प्रणतधीः ममतां विहाय   
निद्रां भजस्व विमले ससुखं शयीथाः ॥ ५० ॥
- - - - 

No comments:

Post a Comment