हास्यसीकरः-१०५
सहोदरी सहोदरं पृच्छति: भ्रातः, पितामह्यै तस्याः जन्मदिने किम् उपायनं
दातुम् इच्छसि?
सहोदरः: अहं तस्यै पादकन्दुकं दास्यामि ।
सहोदरी: व्यर्थः खलु । सा पादकन्दुकेन किं वा करिष्यति?
सहोदरः: यतः, सा मम जन्मदिने मह्यं भगवद्गीताम् अदात् खलु ।
- - - -
No comments:
Post a Comment