हास्यसीकरः- २७
कदाचित् आङ्ग्ललोकसभायां कश्चन सभ्यः भाषणं कुर्वन्नन्यां सभ्यामुद्दिश्य इत्थमवदत्, “ यद्यहं भवत्याः पतिरभविष्यम् तदा भवत्यै विषमदास्यम्” । सा सभ्या सपद्येव प्रत्यवदत्, “ महोदय, अथ किम्, यदि भवान् मम पतिरभविष्यत् निस्संशयमहं सहर्षं तद्विषमपास्यम्” इति ।
- - - -
No comments:
Post a Comment