यतिः शिष्यः सुन्दरी च
यतिः तस्य शिष्यश्च पर्यटन्तौ नदीं तर्तुं सेतुमागतौ । सेतोः क्षतिग्रस्तत्वात् नदीं पद्भ्यामेव तरणमवश्यमभवत् । तत्र काचन सुन्दर्यपि तर्तुं साहाय्यमपेक्षमाणा आसीत् । यतिः तामवदत्, “भवति, यद्यनुमन्यते अहं त्वां स्कन्धे निवेश्य नदीं तारयामि “ इति । सा अन्वमन्यत । यतिः तथैव तां स्कन्धे निवेश्य नदीं तारयामास । सा यतये कृतज्ञतां समर्प्य गता च । शिष्याय तु गुरोः वर्तनं नारोचत । मनस्येव गुरुवर्तनं दूषयन् गुरुमन्वगच्छत् । “सा सुन्दरी । अयं तु यतिः । कथं तां सुन्दरींमस्पृक्षत् स्कन्धे अनैषीच्च” इति चिन्तयन्नेव आसीत् । कतिचिन्मुहूर्तानन्तरं स्वरोषं मनसि गूहितुमशक्तः गुरुमवदत्, “गुरो, भवान् यतिः कथं तां सुन्दरीं स्पृष्ट्वा स्कन्धे निवेश्य नदीमतीतरत् ?” इति । तदा गुरुः विहस्य अवदत्, “शिष्य, अहं तां नदीतीरे एव न्यविक्षम् । त्वं तु इदानीमपि तां मनसि वहन् परिभ्रमसि” इति ।
- - - -
No comments:
Post a Comment