Sunday, June 12, 2011

Sanskrit Blog: Humour_12

- हास्यसीकरः_१२

- काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति

- युवा किञ्चिद्विहस्य अवदत्, आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः

- वृद्धा झटित्युवाच, तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!

- - - -

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. साधु ! साधु ! भवतः लेखिन्याः इतोधिकाः अपि शतशः आशासे |

    http://sanskrit.teluguthesis.org मध्ये शीर्षिकां दृष्ट्वा अत्र आगत्य इमां लेखां अपठम ।

    ReplyDelete