Sunday, June 12, 2011

Sanskrit Blog: Humour_12

- हास्यसीकरः_१२

- काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, “ रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति ” ।

- युवा किञ्चिद्विहस्य अवदत्, “आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः” ।

- वृद्धा झटित्युवाच, “तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!” ।

- - - -

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. साधु ! साधु ! भवतः लेखिन्याः इतोधिकाः अपि शतशः आशासे |

    http://sanskrit.teluguthesis.org मध्ये शीर्षिकां दृष्ट्वा अत्र आगत्य इमां लेखां अपठम ।

    ReplyDelete