Saturday, June 25, 2011

Sanskrit blog: Humour_13

हास्यसीकरः_१३

ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी(lawyer) आसीत् | तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान् इति ।

ब्रह्मदत्तः गंभीरस्वरेण अवदत् , भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति? । किञ्चित्संभ्रान्तः देवदत्तः अवदत्, न विदितम् इति । ब्रह्मदत्तः पुनरुवाच, भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?

यावत् देवदत्तः भवतः क्षमां याचे । नितरां दुःखितोऽस्मि इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?
- - - -

No comments:

Post a Comment