- हास्यसीकरः_१२
- काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, “ रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति ” ।
- युवा किञ्चिद्विहस्य अवदत्, “आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः” ।
- वृद्धा झटित्युवाच, “तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!” ।
- - - -
This comment has been removed by the author.
ReplyDeleteसाधु ! साधु ! भवतः लेखिन्याः इतोधिकाः अपि शतशः आशासे |
ReplyDeletehttp://sanskrit.teluguthesis.org मध्ये शीर्षिकां दृष्ट्वा अत्र आगत्य इमां लेखां अपठम ।