चन्द्रिका_२७
दीयते यदि पयो निजपात्रे
सत्वरं पिबति मीलितनेत्रः ।
चिन्तयन्निव धरा लयमीयात्
तेन किं मम पयो यदि लब्धम् ॥ ११२ ॥
चन्द्रिकाङ्कमधिरुह्य दिनान्ते
कन्दुकाकृतिमवाप्य स शेते ।
मूकजन्तुरनुरागनिबद्धः
स्निह्यति ह्यतिशयेन मनुष्ये ॥ ११३ ॥
मूषकान् निशि हिनस्ति सखेलं
पाककोष्ठविघसादनदक्षान् ।
प्रीणयन् स्वकलया निजगोप्त्रीं
चन्द्रिकां सपदि मूषकभीताम् ॥ ११४ ॥
इत्थमीप्सितपरस्परबन्धौ
तौ दिनान्क्षपयतः कृतकृत्यौ ।
कोऽवगच्छति हरेरभिलाषं
मित्रताह्यसहजापि सुखान्ता ॥ ११५ ॥
- - - -
No comments:
Post a Comment