Saturday, March 12, 2016

Sanskrit blog: Chandrika (A Fairy tale)-28

चन्द्रिका-२८

तत्रासीत्कथितमहापुरे नृपालः
सद्वृत्तः प्रथितयशाः गुणाभिरामः ।
चन्द्राख्यः स्वविषयपालने धुरीणः
सन्तुष्यन् प्रियहितकर्मभिः स्वपौरान् ॥ ११६ ॥

तस्यासीत् मदननिभो युवा तनूजः
विद्यावान् विनयखनिःत्रिविक्रमाख्यः
यं दृष्ट्वा पुरललनागणः प्रदध्यौ
सासूयं वरयति कामयं सुधन्याम् ॥ ११७ ॥

चन्द्रस्तं तनुजमपूर्वरूपभाजं
तारुण्ये निरुपमशोभया ज्वलन्तम् ।
द्रष्टुं द्राक् समुचितकन्यया समेतम्
दाम्पत्ये समरसशालिनं व्यकाङ्क्षीत् ॥ ११८ ॥

पुत्रं सोऽगदतनुरागपूर्णवाचा
विद्यायाः समधिगतोऽसि वत्स पारम् ।
तेऽतोऽहं परिणयकाल इत्यवैमि
तन्वीं त्वं सदृशगुणां वधूं वृणीष्व ॥ ११९ ॥
- - - - 

No comments:

Post a Comment