Saturday, February 27, 2016

Sanskrit blog: Chandrika (A Fairy tale)-26

चन्द्रिका-२६

चन्द्रिकां स्वनिलयेत्वसहायां
मित्रभावमधिगम्य ययाचे ।
कोऽपि सुन्दरतनुः तनुरूपः
स्वेच्छयाश्रयमुपेत्य बिडालः ॥ १०८ ॥

मोहकध्वनिमदम्यविलासं
स्निग्धशुभ्रमृदुरोमविशिष्टम् ।
चन्द्रिका स्वसखायमवेदीत्
तुल्यशीलविषयेषु सुसख्यम् ॥ १०९ ॥

चन्द्रिकामनुसरन्गृहकार्ये
व्यापृतां मृदुपदैरनिशं सः ।
मावमाविति वदन् दरभीतः
पृच्छतीव न ददासि पयः किम्? ॥ ११० ॥

चन्द्रिका यदि ददाति न दुग्धं
सत्वरं पदतले वनितायाः ।
प्रश्रितं विलुठति स्म बुभुक्षुः
प्रेमचोदकदृशः परिषिञ्चन् ॥ १११ ॥
- - - - 

Saturday, February 20, 2016

Sanskrit blog: Chandrika (A Fairy tale)-25

चन्द्रिका-२५ 

दास्यभावमनुसृत्य विमातुः
पुत्रिकामनुचरत्यतिदृप्ताम् ।
चन्द्रिका यदि पुरस्य युवानः
तां निशातनयनैः प्रपिबन्ति ॥ १०४ ॥

कुन्तलालकतरङ्गविलासं
पश्यतो युवजनस्य तरुण्याः ।
मानसेऽपि जनयत्यनिवार्यं
वीचिजालमभिलाषमनोज्ञम् ॥ १०५ ॥

मन्थरालसगतिर्वनितायाः
सुप्तकाममनयत्तरुणानाम् ।
जागरस्थितिमनूह्यविधायां
मन्मथस्य तरुणेषु हि दृष्टिः ॥ १०६ ॥

मण्डितापि वसनैर्बहुमूल्यैः
आत्मजा तु शुशुभे न कलायाः ।
मत्सराविलमतिर्विजगर्हे
चन्द्रिकां युवजने निरतेति ॥ १०७ ॥
- - - - 

Saturday, February 13, 2016

Sanskrit blog: Chandrika (A fairy tale)-24

चन्द्रिका-२४

सर्वं कार्यं चित्तवेगात् समाप्तं
पश्यन्त्या वै श्लाघिता सा विमात्रा ।
देव्याः कारुण्याम्बुधेः तत्कटाक्षात्
वृत्तं कार्यं हीति नावेत् कला सा ॥ १०० ॥
xxx
मन्त्रहूतविबुधस्त्रियमाप्तां
संकटाग्निशमनेऽतिसमर्थाम्।
मातरं स्वबलदां गणयन्ती
चन्द्रिकाथ दिनकर्मसु मग्ना ॥ १०१ ॥

चित्ततृप्तिरभजत् कृतकृत्यां
शान्तता भुवमिवाशु दिनान्ते ।
चन्द्रिकां स्मितमुखीं सुकुमारीं
एणपोतनिभचञ्चलदृष्टिम् ॥ १०२ ॥

दास्यवृत्त्युचितवस्त्रवसाना-
प्यार्यभोग्यरुचिरूपगुणाढ्या ।
पश्यतां सपदि गण्यजनानां

मानसं मृदुमतिः प्रममन्थ ॥ १०३ ॥
- - - - 

Saturday, February 6, 2016

Sanskrit blog: Chandrika (A Fairy tale)-23

चन्द्रिका-२३

पात्राण्यासन् प्रस्फुरद्वज्रशोभी-
न्यग्रेऽपूर्वस्वच्छवासांस्यभूवन् ।
स्वच्छः धौतः पाकशालातलश्च
सन्निर्वृत्तं दुष्करं कार्यजातम् ॥ ९६ ॥

दृष्ट्वा सर्वं तत्परावृत्तवक्त्रा
देव्यै तस्यां दर्शयन्त्यां क्षणेन ।
अन्तर्धानं दिव्यरूपागमत्सा
संवृष्याभ्रं व्योम वै द्राक् जहाति ॥ ९७ ॥

सम्पन्नं कार्त्स्न्येन कर्मेति तृप्ता
देवी याता दृक्पथादित्यतुष्टा ।
द्वन्द्वेनेत्थं बाधिता चन्द्रिका सा
मन्त्रं व्यर्थं क्षुद्रकार्ये शुशोच ॥ ९८ ॥

मन्त्रः पूतः द्विर्विवेकात्प्रयोज्यः
यस्मात्यावज्जीवमानन्दलाभः ।
भूयादित्यालोचयत्सम्यगेवं
बध्नन्त्यज्ञाः मक्षिकाः स्थूलरज्ज्वा ॥ ९९ ॥
- - - -