Saturday, September 19, 2015

Sanskrit blog: Chandrika (A fairy tale)-3

चन्द्रिका-३

कुतूहलप्रेरितचेष्टनोद्यता
सुता यदा भ्राम्यति वेश्मनि द्रुतम् ।
तया कृतः नूपुरशिञ्जितस्वनः
कुटुम्बसङ्गीतलयः प्रतीयते ॥ ११ ॥

मनोज्ञमस्पष्टमुदीरितं तया
क्षमा यदाम्बेति पदं प्रशुश्रुवे ।
विवेद सौख्यं परमं तथा मुनिः
महेशसालोक्यपदे यथा भजेत् ॥ १२ ॥    

यदा सुता प्रश्नसुमैः शतैः क्षमाम्
अवाकिरत् रम्यपदैर्निरन्तरम् ।
तदुत्तरप्राप्तिमुपेक्ष्य चुम्बिता
मुखेऽम्बया वाक्प्रतिबन्धनाशया ॥ १३ ॥

पुराणरामायणभारतोद्धृताः
कथाः पिता श्रावयति स्म चन्द्रिकाम् ।
प्रदोषकाले नलिनैःसहात्मजा-
विलोचने मीलत इत्यपेक्षया ॥ १४ ॥
- - - - 

No comments:

Post a Comment